धेट् पाने, टुओश्वि गतिवृद्ध्योः, एताभ्याम् उत्तरस्य च्लेर् विभाषा चङादेशो भवति। धेटस्तावत् अदधात्। सिच्पक्षे विभाषा घ्राधेट्शाच्छासः
२।४।७८ इति लुक्। अधात्। अधासीत्। श्वयतेः खल्वपि। अशिश्वियत्। अङो ऽप्यत्र विकल्प इष्यते। अश्वत्। अश्वयीत्। कर्तरि इत्येव, अधिषातां गवौ वत्सेन।